मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६३, ऋक् ११

संहिता

पव॑मान वि॒दा र॒यिम॒स्मभ्यं॑ सोम दु॒ष्टर॑म् ।
यो दू॒णाशो॑ वनुष्य॒ता ॥

पदपाठः

पव॑मान । वि॒दाः । र॒यिम् । अ॒स्मभ्य॑म् । सो॒म॒ । दु॒स्तर॑म् ।
यः । दुः॒ऽनशः॑ । व॒नु॒ष्य॒ता ॥

सायणभाष्यम्

हे पवमानसोम योरयिर्वनुष्यता हिंसकेन शत्रुणा दूणाशोनाशयितुमशक्यः तं शत्रु- भिर्दुष्टरं रयिं धनं अस्मभ्यं विदा देहि ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२