मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६३, ऋक् १४

संहिता

ए॒ते धामा॒न्यार्या॑ शु॒क्रा ऋ॒तस्य॒ धार॑या ।
वाजं॒ गोम॑न्तमक्षरन् ॥

पदपाठः

ए॒ते । धामा॑नि । आर्या॑ । शु॒क्राः । ऋ॒तस्य॑ । धार॑या ।
वाज॑म् । गोऽम॑न्तम् । अ॒क्ष॒र॒न् ॥

सायणभाष्यम्

एते अभिषुता इमे शुक्रादीप्ताः सोमा आर्या आर्याणां श्रेष्ठानां यजमानानां धामानि गृहान् प्रति गोमन्तं गोभिर्युक्तं वाजमन्नं ऋतस्योदकस्य धारया अक्षरन् क्षरन्ति ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२