मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६३, ऋक् १५

संहिता

सु॒ता इन्द्रा॑य व॒ज्रिणे॒ सोमा॑सो॒ दध्या॑शिरः ।
प॒वित्र॒मत्य॑क्षरन् ॥

पदपाठः

सु॒ताः । इन्द्रा॑य । व॒ज्रिणे॑ । सोमा॑सः । दधि॑ऽआशिरः ।
प॒वित्र॑म् । अति॑ । अ॒क्ष॒र॒न् ॥

सायणभाष्यम्

वज्रिणे वज्रवते इन्द्रायेन्द्रार्थं सुताअभिषुता दध्याशिरः दधिसंस्कृताः सोमासः सोमाः पवित्रमत्यतिक्रम्याक्षरन् धारया क्षरन्ति ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२