मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६३, ऋक् १६

संहिता

प्र सो॑म॒ मधु॑मत्तमो रा॒ये अ॑र्ष प॒वित्र॒ आ ।
मदो॒ यो दे॑व॒वीत॑मः ॥

पदपाठः

प्र । सो॒म॒ । मधु॑मत्ऽतमः । रा॒ये । अ॒र्ष॒ । प॒वित्रे॑ । आ ।
मदः॑ । यः । दे॒व॒ऽवीत॑मः ॥

सायणभाष्यम्

हे सोम तव योमदोरसो मधुमत्तमोत्यन्तं मधुमान् देववीतमोतिशयेन देवकामश्च तं रसं रायेस्माकं धनार्थं पवित्रे प्रार्ष धारया क्षर ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३