मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६३, ऋक् १७

संहिता

तमी॑ मृजन्त्या॒यवो॒ हरिं॑ न॒दीषु॑ वा॒जिन॑म् ।
इन्दु॒मिन्द्रा॑य मत्स॒रम् ॥

पदपाठः

तम् । ई॒मिति॑ । मृ॒ज॒न्ति॒ । आ॒यवः॑ । हरि॑म् । न॒दीषु॑ । वा॒जिन॑म् ।
इन्दु॑म् । इन्द्रा॑य । म॒त्स॒रम् ॥

सायणभाष्यम्

हरिं हरितवर्णं वाजिनं बलिनं मत्सरं मदकरं तं पवमानमीमेनमिन्दुं मत्सरं सोम- मायवोमनुष्याऋत्विजः इन्द्रायेन्द्रार्थं नदीषु वसतीवरीषु मृजन्ति मार्जयन्ति ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३