मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६३, ऋक् १८

संहिता

आ प॑वस्व॒ हिर॑ण्यव॒दश्वा॑वत्सोम वी॒रव॑त् ।
वाजं॒ गोम॑न्त॒मा भ॑र ॥

पदपाठः

आ । प॒व॒स्व॒ । हिर॑ण्यऽवत् । अश्व॑ऽवत् । सो॒म॒ । वी॒रऽव॑त् ।
वाज॑म् । गोऽम॑न्तम् । आ । भ॒र॒ ॥

सायणभाष्यम्

हे सोम त्वं हिरण्यवत् सुवर्णोपेतमश्ववदश्वयुक्तंच वीरवत् पुत्राद्युपेतंच धनमापव- स्वास्मान् प्रति क्षर । अपिच गोमन्तं पशुभिरुपेतं वाजमन्नमाभरास्मभ्यमाहर ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३