मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६३, ऋक् १९

संहिता

परि॒ वाजे॒ न वा॑ज॒युमव्यो॒ वारे॑षु सिञ्चत ।
इन्द्रा॑य॒ मधु॑मत्तमम् ॥

पदपाठः

परि॑ । वाजे॑ । न । वा॒ज॒ऽयुम् । अव्यः॑ । वारे॑षु । सि॒ञ्च॒त॒ ।
इन्द्रा॑य । मधु॑मत्ऽतमम् ॥

सायणभाष्यम्

वाजयुं युद्धकामं मधुमत्तममतिशयेनमधुमन्तं सोममिन्द्रायेद्रार्थं अव्यः अवेर्वारेषु वालेषु दशापवित्रे वाजे न युद्धेइव हे ऋत्विजः परिषिंचत ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३