मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६३, ऋक् २०

संहिता

क॒विं मृ॑जन्ति॒ मर्ज्यं॑ धी॒भिर्विप्रा॑ अव॒स्यवः॑ ।
वृषा॒ कनि॑क्रदर्षति ॥

पदपाठः

क॒विम् । मृ॒ज॒न्ति॒ । मर्ज्य॑म् । धी॒भिः । विप्राः॑ । अ॒व॒स्यवः॑ ।
वृषा॑ । कनि॑क्रत् । अ॒र्ष॒ति॒ ॥

सायणभाष्यम्

अवस्यवो रक्षणकामा विप्रामेधाविनऋत्विजः धीभिरंगुलीभिर्मर्ज्यं मर्जनीयं कविं क्रांन्तकर्माणं यं सोमं मृजन्ति मर्जयन्ति सोयं वृषा सेचकः सोमः कनिक्रदत् शब्दंकुर्वन् अर्षति धारया क्षरति ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३