मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६३, ऋक् २१

संहिता

वृष॑णं धी॒भिर॒प्तुरं॒ सोम॑मृ॒तस्य॒ धार॑या ।
म॒ती विप्रा॒ः सम॑स्वरन् ॥

पदपाठः

वृष॑णम् । धी॒भिः । अ॒प्ऽतुर॑म् । सोम॑म् । ऋ॒तस्य॑ । धार॑या ।
म॒ती । विप्राः॑ । सम् । अ॒स्व॒र॒न् ॥

सायणभाष्यम्

विप्रा मेधाविनऋत्विजः वृषणं कामानां वर्षकं अप्तुरमपांप्रेरकं सोमं धीभिरंगुली- भिर्मती मत्या च ऋतस्योदकस्य धारया समस्वरन्प्रेरयन्ति ॥ २१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४