मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६३, ऋक् २२

संहिता

पव॑स्व देवायु॒षगिन्द्रं॑ गच्छतु ते॒ मदः॑ ।
वा॒युमा रो॑ह॒ धर्म॑णा ॥

पदपाठः

पव॑स्व । दे॒व॒ । आ॒यु॒षक् । इन्द्र॑म् । ग॒च्छ॒तु॒ । ते॒ । मदः॑ ।
वा॒युम् । आ । रो॒ह॒ । धर्म॑णा ॥

सायणभाष्यम्

हे देव द्योतमान सोम पवस्व धारया क्षर । अपिच ते तव मदो मदकरोरस आयु- षगनुवक्तमिन्द्रं प्रतिगच्छतु । अपिच त्वं वायुं धर्मणा धारकेन रसेनारोह प्राप्नुहि ॥ २२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४