मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६३, ऋक् २३

संहिता

पव॑मान॒ नि तो॑शसे र॒यिं सो॑म श्र॒वाय्य॑म् ।
प्रि॒यः स॑मु॒द्रमा वि॑श ॥

पदपाठः

पव॑मान । नि । तो॒श॒से॒ । र॒यिम् । सो॒म॒ । श्र॒वाय्य॑म् ।
प्रि॒यः । स॒मु॒द्रम् । आ । वि॒श॒ ॥

सायणभाष्यम्

हे पवमान सोम यस्त्वं श्रवाय्यं श्रवणीयं रयिं शत्रूणां धनं नितोशसे नितरां पीडयसि सत्वं प्रियःसन् समुद्रं द्रोणकलशमाविश ॥ २३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४