मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६३, ऋक् २६

संहिता

पव॑मानास आ॒शवः॑ शु॒भ्रा अ॑सृग्र॒मिन्द॑वः ।
घ्नन्तो॒ विश्वा॒ अप॒ द्विषः॑ ॥

पदपाठः

पव॑मानासः । आ॒शवः॑ । शु॒भ्राः । अ॒सृ॒ग्र॒म् । इन्द॑वः ।
घ्नन्तः॑ । विश्वाः॑ । अप॑ । द्विषः॑ ॥

सायणभाष्यम्

आशवः शीघ्राः शुभ्राः शोभनाः पवमानासः क्षरन्त इन्दवो दीप्ताः सोमा विश्वाः सर्वान्द्विषोद्वेष्टृन् शत्रूनपघ्नन्तो मारयन्तः असृग्रमसृज्यन्ते ॥ २६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५