मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६३, ऋक् २७

संहिता

पव॑माना दि॒वस्पर्य॒न्तरि॑क्षादसृक्षत ।
पृ॒थि॒व्या अधि॒ सान॑वि ॥

पदपाठः

पव॑मानाः । दि॒वः । परि॑ । अ॒न्तरि॑क्षात् । अ॒सृ॒क्ष॒त॒ ।
पृ॒थि॒व्याः । अधि॑ । सान॑वि ॥

सायणभाष्यम्

पवमानाः सोमाः दिवो द्युलोकादन्तरिक्षाच्च पृथिव्या भूम्याअधि सानवि समुच्छ्रिते देशे देवयजने पर्यसृक्षत सृज्यन्ते ॥ २७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५