मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६३, ऋक् २८

संहिता

पु॒ना॒नः सो॑म॒ धार॒येन्दो॒ विश्वा॒ अप॒ स्रिधः॑ ।
ज॒हि रक्षां॑सि सुक्रतो ॥

पदपाठः

पु॒ना॒नः । सो॒म॒ । धार॑या । इन्दो॒ इति॑ । विश्वा॑ । अप॑ । स्रिधः॑ ।
ज॒हि । रक्षां॑सि । सु॒क्र॒तो॒ इति॑ सुऽक्रतो ॥

सायणभाष्यम्

हे इन्दो दीप्त सुक्रतो सुकर्मन् सोम धारया पुनानः पूयमानस्त्वं विश्वाः सर्वान् स्निधो द्वेष्टृन् शत्रून् रक्षांसि राक्षसांश्चापजहि मारय ॥ २८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५