मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६४, ऋक् १

संहिता

वृषा॑ सोम द्यु॒माँ अ॑सि॒ वृषा॑ देव॒ वृष॑व्रतः ।
वृषा॒ धर्मा॑णि दधिषे ॥

पदपाठः

वृषा॑ । सो॒म॒ । द्यु॒ऽमान् । अ॒सि॒ । वृषा॑ । दे॒व॒ । वृष॑ऽव्रतः ।
वृषा॑ । धर्मा॑णि । द॒धि॒षे॒ ॥

सायणभाष्यम्

हे सोम वृषा वर्षकस्त्वं द्युमान् दीप्तिमानसि । अपिच हे देव द्योतमान सोम वृषा त्वं वृषव्रतो वर्षणशीलकर्मासि । किंच हे सोम वृषा त्वं धर्माणि देवानां मनुष्याणां च हितानि कर्माणि दधिषे धारयसि ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६