मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६४, ऋक् २

संहिता

वृष्ण॑स्ते॒ वृष्ण्यं॒ शवो॒ वृषा॒ वनं॒ वृषा॒ मदः॑ ।
स॒त्यं वृ॑ष॒न्वृषेद॑सि ॥

पदपाठः

वृष्णः॑ । ते॒ । वृष्ण्य॑म् । शवः॑ । वृषा॑ । वन॑म् । वृषा॑ । मदः॑ ।
स॒त्यम् । वृ॒ष॒न् । वृषा॑ । इत् । अ॒सि॒ ॥

सायणभाष्यम्

हे वृषन् कामानां वर्षक सोम वृष्णो वर्षितुस्ते तव शवोबलं वृष्ण्यं वर्षणशीलं भवति । वनं तवभजनमपि वृषा वर्षणशीलम् । मदस्तवरसोपि वृषा वर्षणशीलः । सत्यं सत्यमेव त्वं वृषेत् वर्षणशीलएवासि भवसि ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६