मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६४, ऋक् ५

संहिता

शु॒म्भमा॑ना ऋता॒युभि॑र्मृ॒ज्यमा॑ना॒ गभ॑स्त्योः ।
पव॑न्ते॒ वारे॑ अ॒व्यये॑ ॥

पदपाठः

शु॒म्भमा॑नाः । ऋ॒त॒युऽभिः॑ । मृ॒ज्यमा॑नाः । गभ॑स्त्योः ।
पव॑न्ते । वारे॑ । अ॒व्यये॑ ॥

सायणभाष्यम्

ऋतायुभिर्यज्ञकामैः शुंभमानाः अलंक्रियमाणा गभस्त्योः गभस्तिभ्यां बाहुभ्याम् । गभ- स्ती बाहू इति बाहुनामसुपाठात् । मृज्यमानाः शोध्यमानाः सोमाः अव्यये अविमये वारे वाले पवित्रे पवन्ते क्षरन्ति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६