मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६४, ऋक् ६

संहिता

ते विश्वा॑ दा॒शुषे॒ वसु॒ सोमा॑ दि॒व्यानि॒ पार्थि॑वा ।
पव॑न्ता॒मान्तरि॑क्ष्या ॥

पदपाठः

ते । विश्वा॑ । दा॒शुषे॑ । वसु॑ । सोमाः॑ । दि॒व्यानि॑ । पार्थि॑वा ।
पव॑न्ताम् । आ । अ॒न्तरि॑क्ष्या ॥

सायणभाष्यम्

ते सोमा दिव्यानि दिविभवानि पार्थिवा पार्थिवानि पृथिव्यां संभूतानि चान्तरिक्ष्या अन्तरिक्षाण्यन्तरिक्षेजातानिच विश्वा विश्वानि वसु वसूनि धनानि दाशुषे हविषां प्र- दात्रे यजमानाय पवन्तां क्षरन्तु ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३७