मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६४, ऋक् ७

संहिता

पव॑मानस्य विश्ववि॒त्प्र ते॒ सर्गा॑ असृक्षत ।
सूर्य॑स्येव॒ न र॒श्मयः॑ ॥

पदपाठः

पव॑मानस्य । वि॒श्व॒ऽवि॒त् । प्र । ते॒ । सर्गाः॑ । अ॒सृ॒क्ष॒त॒ ।
सूर्य॑स्यऽइव । न । र॒श्मयः॑ ॥

सायणभाष्यम्

हे विश्वविद्विश्वस्य द्रष्टः सोम पवमानस्य क्षरतः ते तव सर्गाः प्रसृज्यमाना धाराः सूर्यस्येव रश्मयः सूर्यस्य किरणाइव प्रकाशमानाः । नेति संप्रत्यर्थे । इदानीं प्रासृक्षत प्रासृज्यन्त ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३७