मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६४, ऋक् ८

संहिता

के॒तुं कृ॒ण्वन्दि॒वस्परि॒ विश्वा॑ रू॒पाभ्य॑र्षसि ।
स॒मु॒द्रः सो॑म पिन्वसे ॥

पदपाठः

के॒तुम् । कृ॒ण्वन् । दि॒वः । परि॑ । विश्वा॑ । रू॒पा । अ॒भि । अ॒र्ष॒सि॒ ।
स॒मु॒द्रः । सो॒म॒ । पि॒न्व॒से॒ ॥

सायणभाष्यम्

हे सोम समुद्रः समुद्रवन्ति यस्माद्रसाः ससमुद्रः सत्वं केतुं प्रज्ञानं कृण्वन् कुर्वन् अस्माकं विश्वा विश्वानि रूपा रूपाणि दिवोन्तरिक्षादभ्यर्षस्यभिपवसे प्ररिपिन्वसे नानाविधानि धनानि चास्मभ्यं प्रयच्छसि ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३७