मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६४, ऋक् ९

संहिता

हि॒न्वा॒नो वाच॑मिष्यसि॒ पव॑मान॒ विध॑र्मणि ।
अक्रा॑न्दे॒वो न सूर्य॑ः ॥

पदपाठः

हि॒न्वा॒नः । वाच॑म् । इ॒ष्य॒सि॒ । पव॑मान । विऽध॑र्मणि ।
अक्रा॑न् । दे॒वः । न । सूर्यः॑ ॥

सायणभाष्यम्

हे पवमान सोम हिन्वानः प्रेर्यमाणस्त्वं वाचं शब्दमिष्यसि प्रेरयसि । कदेत्यत्राह— यदा तव रसः सूर्योदेवोन देवइव विधर्मणि विधारके पवित्रे अक्रानक्रमीत् तदेत्यर्थः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३७