मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६४, ऋक् १०

संहिता

इन्दु॑ः पविष्ट॒ चेत॑नः प्रि॒यः क॑वी॒नां म॒ती ।
सृ॒जदश्वं॑ र॒थीरि॑व ॥

पदपाठः

इन्दुः॑ । प॒वि॒ष्ट॒ । चेत॑नः । प्रि॒यः । क॒वी॒नाम् । म॒ती ।
सृ॒जत् । अश्व॑म् । र॒थीःऽइ॑व ॥

सायणभाष्यम्

चेतनः प्रज्ञापकः प्रियोदेवानां प्रीतिकरः इन्दुः सोमः कवीनां क्रान्तकर्मणां स्तोतॄणां मती मत्या स्तुत्या पविष्ट पवते । अश्वं हयं रथीरिव रथीवोर्मि सूजत् सृजति च ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३७