मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६४, ऋक् ११

संहिता

ऊ॒र्मिर्यस्ते॑ प॒वित्र॒ आ दे॑वा॒वीः प॒र्यक्ष॑रत् ।
सीद॑न्नृ॒तस्य॒ योनि॒मा ॥

पदपाठः

ऊ॒र्मिः । यः । ते॒ । प॒वित्रे॑ । आ । दे॒व॒ऽअ॒वीः । प॒रि॒ऽअक्ष॑रत् ।
सीद॑न् । ऋ॒तस्य॑ । योनि॑म् । आ ॥

सायणभाष्यम्

हे सोम ते तव योदेवावीर्देवकामः ऊर्मिस्तरंगः ऋतस्य यज्ञस्य योनिं स्थानं आसी- दन् पवित्रे पर्यक्षरत् परिक्षरति त्मूर्मिं सृजतीति पूर्वत्र संबन्धः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३८