मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६४, ऋक् १३

संहिता

इ॒षे प॑वस्व॒ धार॑या मृ॒ज्यमा॑नो मनी॒षिभि॑ः ।
इन्दो॑ रु॒चाभि गा इ॑हि ॥

पदपाठः

इ॒षे । प॒व॒स्व॒ । धार॑या । मृ॒ज्यमा॑नः । म॒नी॒षिऽभिः॑ ।
इन्दो॒ इति॑ । रु॒चा । अ॒भि । गाः । इ॒हि॒ ॥

सायणभाष्यम्

हे इन्दो सोम मनीषिभिरृत्विग्भिः मृज्यमानः शोध्यमानस्त्वमिषेस्मकमन्नाय धारया पवस्व क्षर । रुचा रोचमानेनान्धसा गाः पशूनभीह्यभिगच्छा ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३८