मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६४, ऋक् १४

संहिता

पु॒ना॒नो वरि॑वस्कृ॒ध्यूर्जं॒ जना॑य गिर्वणः ।
हरे॑ सृजा॒न आ॒शिर॑म् ॥

पदपाठः

पु॒ना॒नः । वरि॑वः । कृ॒धि॒ । ऊर्ज॑म् । जना॑य । गि॒र्व॒णः॒ ।
हरे॑ । सृ॒जा॒नः । आ॒ऽशिर॑म् ॥

सायणभाष्यम्

हे गिर्वणो गीर्भिर्वननीय हरे हरितवर्ण सोम आशिरं क्षीरं प्रतिसृजानो विसृज्यमानः पुनानः पूयमानस्त्वं जनाय यजमानार्थं वरिवोधनमूर्जमन्नंच कृधि कुरु ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३८