मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६४, ऋक् १५

संहिता

पु॒ना॒नो दे॒ववी॑तय॒ इन्द्र॑स्य याहि निष्कृ॒तम् ।
द्यु॒ता॒नो वा॒जिभि॑र्य॒तः ॥

पदपाठः

पु॒ना॒नः । दे॒वऽवी॑तये । इन्द्र॑स्य । या॒हि॒ । निः॒ऽकृ॒तम् ।
द्यु॒ता॒नः । वा॒जिऽभिः॑ । य॒तः ॥

सायणभाष्यम्

हे सोम द्युतानो दीप्यमानो वाजिभिः बलिभिर्यजमानैर्यतः संगृहितो देववीतये यज्ञार्थं पुनानः पूयमानस्त्वं इन्द्रस्य निष्कृतं स्थानं याहि गच्छ ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३८