मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६४, ऋक् १६

संहिता

प्र हि॑न्वा॒नास॒ इन्द॒वोऽच्छा॑ समु॒द्रमा॒शवः॑ ।
धि॒या जू॒ता अ॑सृक्षत ॥

पदपाठः

प्र । हि॒न्वा॒नासः॑ । इन्द॑वः । अच्छ॑ । स॒मु॒द्रम् । आ॒शवः॑ ।
धि॒या । जू॒ताः । अ॒सृ॒क्ष॒त॒ ॥

सायणभाष्यम्

आशवो वेगवन्त इन्दवः सोमाः समुद्रमन्तरिक्षमच्छ प्रति हिन्वानासोहिन्वानाः प्रेर्य- माणाः धिया अंगुल्या जूताः कृष्टाश्च प्रासृक्षत सृज्यन्ते ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३९