मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६४, ऋक् १८

संहिता

परि॑ णो याह्यस्म॒युर्विश्वा॒ वसू॒न्योज॑सा ।
पा॒हि न॒ः शर्म॑ वी॒रव॑त् ॥

पदपाठः

परि॑ । नः॒ । या॒हि॒ । अ॒स्म॒ऽयुः । विश्वा॑ । वसू॑नि । ओज॑सा ।
पा॒हि । नः॒ । शर्म॑ । वी॒रऽव॑त् ॥

सायणभाष्यम्

हे सोमास्मयुरस्मत्कामस्त्वं नोस्माकं विश्वा विश्वानि वसूनि धनानि ओजसा बलेन सह परियाहि रक्षार्थं परिगच्छ । अपिच नोस्माकं वीरवत् पुत्रवत् शर्म गृहं पाहि रक्ष ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३९