मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६४, ऋक् १९

संहिता

मिमा॑ति॒ वह्नि॒रेत॑शः प॒दं यु॑जा॒न ऋक्व॑भिः ।
प्र यत्स॑मु॒द्र आहि॑तः ॥

पदपाठः

मिमा॑ति । वह्निः॑ । एत॑शः । प॒दम् । यु॒जा॒नः । ऋक्व॑ऽभिः ।
प्र । यत् । स॒मु॒द्रे । आऽहि॑तः ॥

सायणभाष्यम्

हे सोम यद्यदा योवह्निर्वहनशील एतशोश्वः मिमाति शब्दंकरोति ऋक्वभिरृत्विग्भिः स्तोतृभिः पदं युजानो यज्ञे युंजानो निदधत् स्तोत्रश्रवणार्थमागच्छति च । सतदा यज्ञवाहका- श्वात्मा त्वं समुद्रे उदके वसतीवरीषु प्राहितोभवसि ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३९