मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६४, ऋक् २०

संहिता

आ यद्योनिं॑ हिर॒ण्यय॑मा॒शुरृ॒तस्य॒ सीद॑ति ।
जहा॒त्यप्र॑चेतसः ॥

पदपाठः

आ । यत् । योनि॑म् । हि॒र॒ण्यय॑म् । आ॒शुः । ऋ॒तस्य॑ । सीद॑ति ।
जहा॑ति । अप्र॑ऽचेतसः ॥

सायणभाष्यम्

यद्यदाशुर्वेगवान् सोम ऋतस्य यज्ञस्य हिरण्ययं हिरण्मयं योनिं स्थानं हिरण्यपाणिर- भिषुणोतीत्युक्तमासीदति । तदानीमप्रचेतसो जहाति विसृजति अस्तोतॄणां यज्ञं नाभिगच्छ- ति । किंतु स्तोतॄणामेव यज्ञमभिगच्छतीत्यर्थः ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३९