मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६४, ऋक् २२

संहिता

इन्द्रा॑येन्दो म॒रुत्व॑ते॒ पव॑स्व॒ मधु॑मत्तमः ।
ऋ॒तस्य॒ योनि॑मा॒सद॑म् ॥

पदपाठः

इन्द्रा॑य । इ॒न्दो॒ इति॑ । म॒रुत्व॑ते । पव॑स्व । मधु॑मत्ऽतमः ।
ऋ॒तस्य॑ । योनि॑म् । आ॒ऽसद॑म् ॥

सायणभाष्यम्

हे इन्दो सोम मधुमत्तमोतिशयेन मधुमान् त्वं ऋतस्य यज्ञस्य योनिं स्थानमासदमुपवेष्टुं मरुत्वते इन्द्रायेद्रार्थं पवस्व क्षर ॥ २२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४०