मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६४, ऋक् २३

संहिता

तं त्वा॒ विप्रा॑ वचो॒विद॒ः परि॑ ष्कृण्वन्ति वे॒धसः॑ ।
सं त्वा॑ मृजन्त्या॒यवः॑ ॥

पदपाठः

तम् । त्वा॒ । विप्राः॑ । व॒चः॒ऽविदः॑ । परि॑ । कृ॒ण्व॒न्ति॒ । वे॒धसः॑ ।
सम् । त्वा॒ । मृ॒ज॒न्ति॒ । आ॒यवः॑ ॥

सायणभाष्यम्

हे सोम तं पवमानं त्वा त्वां विप्राः प्राज्ञा वेधसः कर्मणांकर्तारो वचोविदः स्तोतारः परिष्कृण्वन्ति अलंकुर्वन्ति । अपिच त्वा त्वामायवोमनुष्याः संमृजन्ति सम्यक् शोधयन्ति ॥ २३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४०