मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६४, ऋक् २४

संहिता

रसं॑ ते मि॒त्रो अ॑र्य॒मा पिब॑न्ति॒ वरु॑णः कवे ।
पव॑मानस्य म॒रुतः॑ ॥

पदपाठः

रस॑म् । ते॒ । मि॒त्रः । अ॒र्य॒मा । पिब॑न्ति । वरु॑णः । क॒वे॒ ।
पव॑मानस्य । म॒रुतः॑ ॥

सायणभाष्यम्

हे कवे क्रान्तकर्मन् सोम पवमानस्य क्षरतस्ते तव रसं मित्रः अर्यमा च वरुणश्च मरुतश्चैते सर्वेदेवाः पिबन्ति ॥ २४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४०