मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६४, ऋक् २५

संहिता

त्वं सो॑म विप॒श्चितं॑ पुना॒नो वाच॑मिष्यसि ।
इन्दो॑ स॒हस्र॑भर्णसम् ॥

पदपाठः

त्वम् । सो॒म॒ । वि॒पः॒ऽचित॑म् । पु॒ना॒नः । वाच॑म् । इ॒ष्य॒सि॒ ।
इन्दो॒ इति॑ । स॒हस्र॑ऽभर्णसम् ॥

सायणभाष्यम्

हे इन्दो दीप्तसोम पुनानः पूयमानस्त्वं विपश्चितं प्रज्ञया पवित्रां सहस्रभर्णसं बहु- भरणां वाचमिष्यसि प्रेरयसि ॥ २५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४०