मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६४, ऋक् २६

संहिता

उ॒तो स॒हस्र॑भर्णसं॒ वाचं॑ सोम मख॒स्युव॑म् ।
पु॒ना॒न इ॑न्द॒वा भ॑र ॥

पदपाठः

उ॒तो इति॑ । स॒हस्र॑ऽभर्णसम् । वाच॑म् । सो॒म॒ । म॒ख॒स्युव॑म् ।
पु॒ना॒नः । इ॒न्दो॒ इति॑ । आ । भ॒र॒ ॥

सायणभाष्यम्

उतो अपिच हे इन्दो दीप्तसोम पुनानः पूयमानस्त्वं सहस्रभर्णसं सहस्रभरणां मखस्युवं धनकामां यज्ञकामां वाचमस्मभ्यमाभराहर ॥ २६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४१