मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६४, ऋक् २७

संहिता

पु॒ना॒न इ॑न्दवेषां॒ पुरु॑हूत॒ जना॑नाम् ।
प्रि॒यः स॑मु॒द्रमा वि॑श ॥

पदपाठः

पु॒ना॒नः । इ॒न्दो॒ इति॑ । ए॒षा॒म् । पुरु॑ऽहूत । जना॑नाम् ।
प्रि॒यः । स॒मु॒द्रम् । आ । वि॒श॒ ॥

सायणभाष्यम्

हे पुरुहूत बहुभिराहूत इन्दो सोम पुनानः पूयमानस्त्वं एषामस्मिन् यागे स्तोत्रं कुर्वतां जनानां प्रियः सन् समुद्रं द्रोणकलशमाविश प्रविश ॥ २७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४१