मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६४, ऋक् २८

संहिता

दवि॑द्युतत्या रु॒चा प॑रि॒ष्टोभ॑न्त्या कृ॒पा ।
सोमा॑ः शु॒क्रा गवा॑शिरः ॥

पदपाठः

दवि॑द्युतत्या । रु॒चा । प॒रि॒ऽस्तोभ॑न्त्या । कृ॒पा ।
सोमाः॑ । शु॒क्राः । गोऽआ॑शिरः ॥

सायणभाष्यम्

शुक्रा उज्ज्वलाः दविद्युतत्या द्योतमानया रुचा दीप्त्या परिष्टोभंत्या परितः शब्दाय- मानया कृपा धारयाच युक्ताः सोमाः गवाशिरो भवन्ति गव्येन पयसा मिश्रिता भवन्ती- त्यर्थः ॥ २८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४१