मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६४, ऋक् २९

संहिता

हि॒न्वा॒नो हे॒तृभि॑र्य॒त आ वाजं॑ वा॒ज्य॑क्रमीत् ।
सीद॑न्तो व॒नुषो॑ यथा ॥

पदपाठः

हि॒न्वा॒नः । हे॒तृऽभिः॑ । य॒तः । आ । वाज॑म् । वा॒जी । अ॒क्र॒मी॒त् ।
सीद॑न्तः । व॒नुषः॑ । य॒था॒ ॥

सायणभाष्यम्

वाजी बलवान् सोमो हेतृभिः प्रेरकैः स्तोतृभिः हिन्वानः स्तोत्रैः प्रेर्यमाणो यतः संयतः सन् वाजं यागाख्यं युद्धमाक्रमीदाक्रमति । तत्रदृष्टान्तः—यथावनुषोहन्तारोभटाः सीदन्तो- युद्धं प्रविशन्तः आक्रमन्ति तद्वदित्यर्थः ॥ २९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४१