मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६५, ऋक् १

संहिता

हि॒न्वन्ति॒ सूर॒मुस्र॑य॒ः स्वसा॑रो जा॒मय॒स्पति॑म् ।
म॒हामिन्दुं॑ मही॒युवः॑ ॥

पदपाठः

हि॒न्वन्ति॑ । सूर॑म् । उस्र॑यः । स्वसा॑रः । जा॒मयः॑ । पति॑म् ।
म॒हाम् । इन्दु॑म् । म॒ही॒युवः॑ ॥

सायणभाष्यम्

यस्यनिःश्वसितंवेदा योवेदेभ्योखिलंजगत् । निर्ममे तमहंवन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥

हिन्वन्तीति त्रिंशदृचं पञ्चमं सूक्तं वरुणपुत्रस्य भृगोरार्षं भार्गवस्य जमदग्नेर्वा । गाय- त्रं पवमानसोमदेवताकम् । तथाचानुक्रम्यते—हिन्वन्तिभृगुर्वारुणिर्जमदग्निर्वेति । गतोविनियो- गः ।

अत्र सर्वत्र पवमानः सोमः स्तूयते । तत्रादावृषिः सोमं प्रत्याह मदीया अंगुलयः त्वामभि- षोतुं प्रेरयन्तीति । तदुच्यते—स्वसारः अंगुलिनामैतत् सुष्ठु कर्मसु प्रेर्यन्ते ऋत्विग्भिरिति स्वसारः जामय एकस्मात्पाणेरुत्पन्नत्वात्परस्परं बन्धुभूताः उस्रयः कर्मार्थं निवसंत्यः सर्वत्र गन्त्र्यइत्यर्थम् । तादृश्योंगुलयः महीयुवः त्वदभिषवं कामयमानाः सत्यः सूरं सुवीर्यं सोमे पीते वीर्यं भवतीति शोभनवीर्यकारणं वा सर्वेषां कर्मणिप्रेरकं वा तादृशं पतिं सर्वस्य स्थावरजंग- मजा तस्य स्वामिनं यस्माद्देवार्थमिज्यते अतएव महां देवोभ्योदीयमानत्वेन महान्तं मंहनी- यं वा इदुं ग्रहेषु स्पन्दमानं सोमं हिन्वन्ति प्रेरयन्ति । हिवर्धनगत्योः स्वादिः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः