मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६५, ऋक् २

संहिता

पव॑मान रु॒चारु॑चा दे॒वो दे॒वेभ्य॒स्परि॑ ।
विश्वा॒ वसू॒न्या वि॑श ॥

पदपाठः

पव॑मान । रु॒चाऽरु॑चा । दे॒वः । दे॒वेभ्यः॑ । परि॑ ।
विश्वा॑ । वसू॑नि । आ । वि॒श॒ ॥

सायणभाष्यम्

हे पवमान दशापवित्रेण पूयमान यद्वा पुनान शुद्ध सोम रुचारुचा रुचदीप्तौ सर्वेण ते- जसा देवोदीप्यमानस्त्वं देवेभ्यः परि देवेभ्यः सकाशात् विश्वा व्याप्तानि सर्वाणि बहूनि वसू- नि धनानि अस्माकमाविश प्रापय । यद्वा देवेभ्यस्त्वदर्थं सर्वाणि वसूनि निवासस्थानानि ग्रहादीनि आविश समन्तात्प्रविश ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः