मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६५, ऋक् ४

संहिता

वृषा॒ ह्यसि॑ भा॒नुना॑ द्यु॒मन्तं॑ त्वा हवामहे ।
पव॑मान स्वा॒ध्य॑ः ॥

पदपाठः

वृषा॑ । हि । असि॑ । भा॒नुना॑ । द्यु॒ऽमन्त॑म् । त्वा॒ । ह॒वा॒म॒हे॒ ।
पव॑मान । सु॒ऽआ॒ध्यः॑ ॥

सायणभाष्यम्

पवमान पूयमान वृषा अभिमतफलानां वर्षितासि हि भवसि खलु । तस्मात् हे पवमान पुनान वा सोम स्वाध्यः शोभनकर्माणः सुष्ठुध्यानवन्तोवा वयं भानुना रश्मिना द्युमन्तं दीप्ति- मन्तं अतिशयेन तेजस्विनं इत्यर्थः स्तुतिमन्तंवा त्वा त्वां हवामहे यज्ञेषु आह्वयामहे ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः