आ प॑वस्व सु॒वीर्यं॒ मन्द॑मानः स्वायुध ।
इ॒हो ष्वि॑न्द॒वा ग॑हि ॥
आ । प॒व॒स्व॒ । सु॒ऽवीर्य॑म् । मन्द॑मानः । सु॒ऽआ॒यु॒ध॒ ।
इ॒हो इति॑ । सु । इ॒न्दो॒ इति॑ । आ । ग॒हि॒ ॥
हे स्वायुध यज्ञे स्फ्यकपालादीनि दशआयुधानीत्यभिधीयन्ते शोभनानि तानि यस्य सत- थोक्तः । यद्वा धनुरादीन्यायुधानि यस्य सः तादृश हे सोम त्वं मन्दमानः मोदमानः सन् यद्वा अन्तर्णीतण्यर्थः देवान् स्वयं मादयन् सुवीर्यं शोभनवीर्योपेतं पुत्रादिकमस्माकं आपवस्व पव- तिर्गत्यर्थः आप्रापय । किंच हे इन्दो ग्रहेषु चमसेषुच क्शरणशील सोम इहो इह उ पदद्वयं उइत्यवधारणे इहैवास्मदीये यज्ञे एव सुष्ठु आगहि आगच्छ ॥ ५ ॥