मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६५, ऋक् ७

संहिता

प्र सोमा॑य व्यश्व॒वत्पव॑मानाय गायत ।
म॒हे स॒हस्र॑चक्षसे ॥

पदपाठः

प्र । सोमा॑य । व्य॒श्व॒ऽवत् । पव॑मानाय । गा॒य॒त॒ ।
म॒हे । स॒हस्र॑ऽचक्षसे ॥

सायणभाष्यम्

हे स्तोतारः पवमानाय दशापवित्रेण पूयमानाय पुनानाय वा सोमाय प्रगायत प्रक- र्षेण सामगानं कुरुत अभिष्टुन वा । कथमिव व्यश्ववत् यथापूर्वं व्यश्वोनामऋषिः सोममगा- सीत् तद्वत् यूयमपि । कीदृशाय महे महते देवेभ्यः स्वीयंक्रियमाणत्वेन गुणादिभिर्वा महत्त्व- युक्ताय सहस्रचक्षसे प्रयोगबाहुल्यापेक्षमेतद्वचनं सहस्रसंख्याकस्तोत्रयुक्ताय यद्वा नानाविधै- र्देवरैनेकधाद्रष्टव्याय सोमायेति ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः