मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६५, ऋक् ९

संहिता

तस्य॑ ते वा॒जिनो॑ व॒यं विश्वा॒ धना॑नि जि॒ग्युषः॑ ।
स॒खि॒त्वमा वृ॑णीमहे ॥

पदपाठः

तस्य॑ । ते॒ । वा॒जिनः॑ । व॒यम् । विश्वा॑ । धना॑नि । जि॒ग्युषः॑ ।
स॒खि॒ऽत्वम् । आ । वृ॒णी॒म॒हे॒ ॥

सायणभाष्यम्

हे सोम वाजिनः संभृतहविष्कावयं विश्वा विश्वानि सर्वाणि व्याप्तानि वा शत्रुधनानि जिग्युषः जित्वतस्तस्य पूर्वोक्तलक्षणस्य प्रसिद्धस्य वा ते तव सखित्वं स्तुत्यस्तोतृलक्षणं सख्यं आवृणीमहे संभजामहे अस्मभ्यं धनं देहीति संभजनं कुर्मइत्यर्थः । जिग्युषः जिजये लिटि क्वसौ वस्वेकाजादिति नियमादिडभावः सन् लिटोर्जेरित्यभ्यासादुत्तरस्य कवर्गादेशः जसिपतोवसोः संप्रसारणं क्वसुप्रत्ययस्वरः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः