मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६५, ऋक् १०

संहिता

वृषा॑ पवस्व॒ धार॑या म॒रुत्व॑ते च मत्स॒रः ।
विश्वा॒ दधा॑न॒ ओज॑सा ॥

पदपाठः

वृषा॑ । प॒व॒स्व॒ । धार॑या । म॒रुत्व॑ते । च॒ । म॒त्स॒रः ।
विश्वा॑ । दधा॑नः । ओज॑सा ॥

सायणभाष्यम्

हे सोम त्वं वृषा स्तोतॄणामभिमतफलस्य वर्षकः सन् धारया त्वदीयया पवस्व द्रोणक- लशमागच्छ । पवतिर्गतिकर्मा आगतस्त्वं यदा अस्माभिरिन्द्राय दीयसे तदा मरुत्वते सहा- यामरुतोयस्यसन्ति तस्मै इन्द्राय मत्सरोमदकरश्च भव । कीदृशः विश्वा विश्वानि सर्वाणि व्याप्तानि वा धनानि ओजसा आत्मीयेन बलेन युक्तःसन् स्तोतृभ्यस्तानि दधानः प्रयच्छन् त्वं मादयिता भवेति समन्वयः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः