मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६५, ऋक् ११

संहिता

तं त्वा॑ ध॒र्तार॑मो॒ण्यो॒३॒॑ः पव॑मान स्व॒र्दृश॑म् ।
हि॒न्वे वाजे॑षु वा॒जिन॑म् ॥

पदपाठः

तम् । त्वा॒ । ध॒र्तार॑म् । ओ॒ण्योः॑ । पव॑मान । स्वः॒ऽदृश॑म् ।
हि॒न्वे । वाजे॑षु । वा॒जिन॑म् ॥

सायणभाष्यम्

हे पवमान पूयमान पुनान वा हे सोम ओण्योः । द्यावापृथिवीनामैतत् । तयोर्धर्तारं धा- रकं अतएव स्वर्दृशं स्वर्गस्य सूर्यस्य वा द्रष्टारं सर्वैर्देवैर्द्रष्टव्यं वाजिनं बलवन्तं पूर्वोक्तगुण- सिद्धं त्वा त्वां वाजेषु संग्रामेषु हिन्वे प्रेरयामि । यद्वा वाजेषु अन्नेषु विषयेषु हिनोमि अन्नादिकं प्रयच्छेत्यर्थः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः