मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६५, ऋक् १३

संहिता

आ न॑ इन्दो म॒हीमिषं॒ पव॑स्व वि॒श्वद॑र्शतः ।
अ॒स्मभ्यं॑ सोम गातु॒वित् ॥

पदपाठः

आ । नः॒ । इ॒न्दो॒ इति॑ । म॒हीम् । इष॑म् । पव॑स्व । वि॒श्वऽद॑र्शतः ।
अ॒स्मभ्य॑म् । सो॒म॒ । गा॒तु॒ऽवित् ॥

सायणभाष्यम्

हे इन्दो क्षरणशील दीपनशील हे सोम विशदर्शतः विश्वैः सर्वैः दर्शनीयः यद्वा विश्वं सर्वं वस्तुजातं दृश्यते ज्ञाप्यतेनेनेति सविश्वस्य प्रकाशकइत्यर्थः । तादृशस्त्वं महीमिषं मह- त्प्रभूतमन्नं नोस्मभ्यमापवस्व आगमय प्रयच्छेत्यर्थः । किंच हे सोमाभिषूयमाण पवमान अस्मभ्यं गातुवित् स्वर्गमार्गस्य लंभयिता ज्ञापयिता भव ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः