मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६५, ऋक् १४

संहिता

आ क॒लशा॑ अनूष॒तेन्दो॒ धारा॑भि॒रोज॑सा ।
एन्द्र॑स्य पी॒तये॑ विश ॥

पदपाठः

आ । क॒लशाः॑ । अ॒नू॒ष॒त॒ । इन्दो॒ इति॑ । धारा॑भिः । ओज॑सा ।
आ । इन्द्र॑स्य । पी॒तये॑ । वि॒श॒ ॥

सायणभाष्यम्

हे इन्दो क्षरणशील सोम ओजसा बलेन युक्तस्य तव धाराभिर्निरन्तराभिः सहिताः कलशाः प्रयोगबाहुल्यपेक्षमेतद्बहुवचनम् । द्रोणकलशाः अनूषत स्तोतॄभिराभिमुख्येन स्तूयन्ते । सोमाभिषवकालेहि ऋत्विजः स्तुवन्तिखलु । ततस्त्वमिन्द्रस्य पीतये पानाय आविश ग्रहांश्चमसांश्च प्रविश ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः