आ न॑ इन्दो शत॒ग्विनं॒ गवां॒ पोषं॒ स्वश्व्य॑म् ।
वहा॒ भग॑त्तिमू॒तये॑ ॥
आ । नः॒ । इ॒न्दो॒ इति॑ । श॒त॒ऽग्विन॑म् । गवा॑म् । पोष॑म् । सु॒ऽअश्व्य॑म् ।
वह॑ । भग॑त्तिम् । ऊ॒तये॑ ॥
हे इन्दो पात्रेषु क्षरणशील दीपनशीलवा हे सोम शतग्विनं शतसहस्रसंख्याभिर्गोभिर्युक्तं गवां पोषं गवादीनां पुष्टिवर्धनं स्वश्व्यं शोभनाश्वसंगसहितं भगत्तिं भगदत्तिं भजनीयधनदानं च ऊतये रक्षणाय नोस्माकं आवह प्रापय गवादींश्च । तेषांच वृद्धिं प्रयच्छेत्यर्थः ॥ १७ ॥