मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६५, ऋक् १८

संहिता

आ नः॑ सोम॒ सहो॒ जुवो॑ रू॒पं न वर्च॑से भर ।
सु॒ष्वा॒णो दे॒ववी॑तये ॥

पदपाठः

आ । नः॒ । सो॒म॒ । सहः॑ । जुवः॑ । रू॒पम् । न । वर्च॑से । भ॒र॒ ।
सु॒स्वा॒नः । दे॒वऽवी॑तये ॥

सायणभाष्यम्

हे सोम देववीतये देवपानाय देवानां कामाय वा सुष्वाणः अभिषूयमाणः अभिषुतो वा भव । त्वं सहः शत्र्वभिभवनसमर्थं बलं जुवः जुरितिगत्यर्थः शत्रून्प्रति शीघ्रगमनंच यद्वा सर्वतोगमनशीलम् । किंच नेतिचार्थे । वर्चसे वर्चदीप्तौ दीप्त्यै सर्वत्र प्रकाशनाय रूपंच नोस्मभ्यं आभराहर प्रयच्छ ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः